|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.71. अध्यायः 071
Mahabharata - Virata Parva - Chapter Topics
अर्जुनकुरुयुद्धदिदृक्षया समागतैर्देवैरर्जुनं श्लाघमानैः सद्भिः पुनः स्वर्गंप्रति गमनम् ॥ 1 ॥ उत्तरेण सवादिन्नगोषं पौरैः प्रत्युद्गम्यमानेन स्वनगरप्रवेशनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
जनमेजय उवाच। 4-71-0x(3281)(31386)
युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा।
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ ॥ 4-71-1(31387)
वैशम्पायन उवाच। 4-71-2x(3282)
वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः।
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा ॥ 4-71-2(31388)
युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च।
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् ॥ 4-71-3(31389)
अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान्।
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः ॥ 4-71-4(31390)
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना।
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः ॥ 4-71-5(31391)
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः।
असङ्गतिना तेन विमानेनाशुगामिना।
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः ॥ 4-71-6(31392)
[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः।
अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः ।
पार्थेनैकेन संग्रामे विस्मयो नो महानहो ॥ 4-71-7(31393)
कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम् ॥ 4-71-8(31394)
किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत्।
निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान् ॥ 4-71-9(31395)
तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः ।
जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ॥] 4-71-10(31396)
कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः ।
कुरूनभिमुखां याताः समग्रबलवाहनाः ॥ 4-71-11(31397)
विराटनगराच्चैव गजाश्वरथसंकुलाः ।
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः ॥ 4-71-12(31398)
विराटप्रहिता सेना नगराच्छीघ्रयायिनी ।
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् ॥ 4-71-13(31399)
तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसंकुले ।
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत ॥ 4-71-14(31400)
अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् ।
सैन्यध्वजं निशम्याथ वैराटिं समभाषत॥ 4-71-15(31401)
नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः।
किंनु खल्वपयातास्ते कुरवो नगरं गताः ॥ 4-71-16(31402)
ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः ।
आमुञ्च कवचं वीर चोदयस्व च वाजिनः ।
जवेनाभिप्रपद्यस्व विराटनगरं प्रति ॥ 4-71-17(31403)
न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् ।
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् ॥ 4-71-18(31404)
उत्तर उवाच। 4-71-19x(3283)
सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलंकृताः।
कन्या रथेषु दृश्यन्ते योधा विविधवाससः ॥ 4-71-19(31405)
उत्तरामत्र पश्यामि सखीभिः परिवारिताम्।
अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः ॥ 4-71-20(31406)
रथिनश्च पदाताश्च बहवो न च शस्त्रिणः।
विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे।
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा ॥ 4-71-21(31407)
वैशम्पायन उवाच। 4-71-22x(3284)
ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु।
परस्परममित्रघ्नं सस्वजे तं समागतम् ॥ 4-71-22(31408)
जना ऊचुः। 4-71-23x(3285)
प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः ।
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः।
दिष्ट्या संग्राममागम्य भयं तव न किंचन ॥ 4-71-23(31409)
उत्तर उवाच। 4-71-24x(3286)
अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे।
एतस्यक बाहुवीर्यं तद्येन गावो जिता मया।
कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः ॥ 4-71-24(31410)
अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा।
एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम्।
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् ॥ 4-71-25(31411)
वैशम्पायन उवाच। 4-71-26x(3287)
उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम्।
चोदिता राजपुत्रेण जयं मङ्गलवादिनः ॥ 4-71-26(31412)
ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसंभृतैः ।
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् ॥ 4-71-27(31413)
आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः ।
संपूज्यमानो लोकेन नगरद्वारमागमत् ॥ 4-71-28(31414)
भेर्यश्च तूर्याणि च वेणवश्च
विचित्रवेषाः प्रमदाजनाश्च।
पुरो विराटस्य महाबलस्य
निष्क्रम्य भूमिंजयमभ्यनन्दनम् ॥ 4-71-29(31415)
प्रशस्यमानस्तु जयेन तत्र
पुत्रो विराटस्य न हृष्यति स्म।
संभाष्यमाणस्तु जयेन तत्र
सोऽन्तर्मनाः पाण्डवमीक्षमाणः ॥ 4-71-30(31416)
पुत्र्यै विराटस्य ततो वराणि
वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः।
सभाजयंश्चापि समागतास्ता
दृष्ट्वा जयं तच्च बलं कुमार्यः ॥ ॥ 4-71-31(31417)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकसप्ततितमोऽध्यायः ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-71-7 *इमे श्लोकाः थo पुस्तकमात्रे वर्तन्ते।

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|